||अथ द्वितीयोऽध्यायः ||
ध्यानं
श्रुणु महादेवि सर्वानन्दप्रदायकम् |
सर्वसौख्यकरं
चैव भुक्तिमुक्तिप्रदायकम् ||१०९||
श्रीमत्परं
ब्रह्म गुरुं स्मरामि
श्रीमत्परं
ब्रह्म गुरुं भजामि |
श्रीमत्परं
ब्रह्म गुरुं वदामि
श्रीमत्परं
ब्रह्म गुरुं नमामि ||११०||
ब्रह्मानन्दं
परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं
गगनसदृशं तत्त्वमस्यादिलक्ष्यम् |
एकं
नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं
त्रिगुणरहितं सद्गुरुं तं नमामि ||१११||
हृदम्बुजे
कर्णिकमध्यसंस्थे
सिंहासने
संस्थितदिव्यमूर्तिम् |
ध्यायेद्गुरुं
चन्द्रकलाप्रकाशम्
सच्चित्सुखाभीष्टवरं
दधानम् ||११२||
श्वेताम्बरं
श्वेतविलेपपुष्पम्
मुक्ताविभूषं
मुदितं द्विनेत्रम् |
वामाङ्कपीठस्थितदिव्यशक्तिम्
मन्दस्मितं
पूर्णकृपानिधानम् ||११३||
ज्ञानस्वरूपं
निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् |
योगीन्द्रमीड्यं
भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ||११४||
वन्दे
गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् |
जनस्य
येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ||११५||
यस्मिन्
सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् |
कृत्यं
पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ||११६||
पादाब्जे
सर्वसंसारदावकालानलं स्वके |
ब्रह्मरन्ध्रे
स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ||११७||
अकथादित्रिरेखाब्जे
सहस्रदलमण्डले |
हंसपार्श्वत्रिकोणे
च स्मरेत्तन्मध्यगं गुरुम् ||११८||
नित्यं
शुद्धं निराभासं निराकारं निरञ्जनम् |
नित्यबोधं
चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ||११९||
सकलभुवनसृष्टिः
कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः
सत्पदार्थैकसृष्टिः |
अतद्गणपरमेष्टिः
सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः
||१२०||
सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः
|
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु
मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ||१२१||
न
गुरोरधिकं न गुरोरधिकं
न
गुरोरधिकं न गुरोरधिकम् |
शिवशासनतः
शिवशासनतः
शिवशासनतः
शिवशासनतः ||१२२||
इदमेव
शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् |
हरिशासनतो
हरिशासनतो हरिशासनतो हरिशासनतः ||१२३||
विदितं
विदितं विदितं विदितं
विजनं
विजनं विजनं विजनम् |
विधिशासनतो
विधिशासनतो
विधिशासनतो
विधिशासनतः ||१२४||
एवंविधं
गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् |
तदा
गुरूपदेशेन मुक्तोऽहमिति भावयेत् ||१२५||
गुरूपदिष्टमार्गेण
मनःशुद्धिं तु कारयेत् |
अनित्यं
खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ||१२६||
ज्ञेयं
सर्वं प्रतीतं च ज्ञानं च मन उच्यते |
ज्ञानं
ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ||१२७||
किमत्र
बहुनोक्तेन शास्त्रकोटिशतैरपि |
दुर्लभा
चित्तविश्रान्तिः विना गुरुकृपां पराम् ||१२८||
करुणाखड्गपातेन
छित्वा पाशाष्टकं शिशोः |
सम्यगानन्दजनकः
सद्गुरुः सोऽभिधीयते ||१२९||
एवं
श्रुत्वा महादेवि गुरुनिन्दां करोति यः |
स
याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ||१३०||
यावत्कल्पान्तको
देहस्तावद्देवि गुरुं स्मरेत् |
गुरुलोपा
न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ||१३१||
हुङ्कारेण
न वक्तव्यं प्राज्ञशिष्यैः कदाचन |
गुरोरग्र
न वक्तव्यमसत्यं तु कदाचन ||१३२||
गुरुं
त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः |
अरण्ये
निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ||१३३||
अद्वैतं
भावयेन्नित्यं सर्वावस्थासु सर्वदा |
कदाचिदपि
नो कुर्याद्द्वैतं गुरुसन्निधौ ||१३४||
दृश्यविस्मृतिपर्यन्तं
कुर्याद् गुरुपदार्चनम् |
तादृशस्यैव
कैवल्यं न च तद्व्यतिरेकिणः ||१३५||
अपि
सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा |
भवत्येव
हि तस्यान्तकाले विक्षेपमुत्कटम् ||१३६||
गुरुकार्यं
न लङ्घेत नापृष्ट्वा कार्यमाचरेत् |
न
ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ||१३७||
गुरौ
सति स्वयं देवि परेषां तु कदाचन |
उपदेशं
न वै कुर्यात् तथा चेद्राक्षसो भवेत् ||१३८||
न
गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् |
दीक्षा
व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ||१३९||
नोपाश्रमं
च पर्यकं न च पादप्रसारणम् |
नाङ्गभोगादिकं
कुर्यान्न लीलामपरामपि ||१४०||
गुरूणां
सदसद्वापि यदुक्तं तन्न लंघयेत् |
कुर्वन्नाज्ञां
दिवा रात्रौ दासवन्निवसेद्गुरो ||१४१||
अदत्तं
न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् |
दत्ते
च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ||१४२||
पादुकासनशय्यादि
गुरुणा यदभीष्टितम् |
नमस्कुर्वीत
तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ||१४३||
गच्छतः
पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् |
नोल्बणं
धारयेद्वेषं नालंकारांस्ततोल्बणान् ||१४४||
गुरुनिन्दाकरं
दृष्ट्वा धावयेदथ वासयेत् |
स्थानं
वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ||१४५||
नोच्छिष्टं
कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् |
कृत्स्नमुच्छिष्टमादाय
हविर्वद्भक्षयेत्स्वयम् ||१४६||
नानृतं
नाप्रियं चैव न गर्व नापि वा बहु |
न
नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ||१४७||
प्रभो
देवकुलेशानां स्वामिन् राजन् कुलेश्वर |
इति
सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ||१४८||
मुनिभिः
पन्नगैर्वापि सुरैर्वा शापितो यदि |
कालमृत्युभयाद्वापि
गुरुः संत्राति पार्वति ||१४९||
अशक्ता
हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा |
गुरुशापोपपन्नस्य
रक्षणाय च कुत्रचित् ||१५०||
मन्त्रराजमिदं
देवि गुरुरित्यक्षरद्वयम् |
स्मृतिवेदपुराणानां
सारमेव न संशयः ||१५१||
सत्कारमानपूजार्थं
दण्डकाषयधारणः |
स
संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ||१५२||
विजानन्ति
महावाक्यं गुरोश्चरण सेवया |
ते
वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ||१५३||
नित्यं
ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् |
यः
साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ||१५४||
गुरुप्रसादतः
स्वात्मन्यात्मारामनिरीक्षणात् |
समता
मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ||१५५||
आब्रह्मस्तम्भपर्यन्तं
परमात्मस्वरूपकम् |
स्थावरं
जंगमं चैव प्रणमामि जगन्मयम् ||१५६||
वन्देहं
सच्चिदानन्दं भावातीतं जगद्गुरुम् |
नित्यं
पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ||१५७||
परात्परतरं
ध्यायेन्नित्यमानन्दकारकम् |
हृदयाकाशमध्यस्थं
शुद्धस्फटिकसन्निभम् ||१५८||
स्फाटिके
स्फाटिकं रूपं दर्पणे दर्पणो यथा |
तथात्मनि
चिदाकारमानन्दं सोऽहमित्युत ||१५९||
अंगुष्ठमात्रं
पुरुषं ध्यायेच्च चिन्मयं हृदि |
तत्र
स्फुरति यो भावः श्रुणु तत्कथयामि ते ||१६०||
अजोऽहममरोऽहं
च ह्यनादिनिधनो ह्यहम् |
अविकारश्चिदानन्दो
ह्यणीयान्महतो महान् ||१६१||
अपूर्वमपरं
नित्यं स्वयंज्योतिर्निरामयम् |
विरजं
परमाकाशं ध्रुवमानन्दमव्ययम् ||१६२||
अगोचरं
तथाऽगम्यं नामरूपविवर्जितम् |
निःशब्दं
तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ||१६३||
यथा
गन्धस्वभावावत्वं कर्पूरकुसुमादिषु |
शीतोष्णत्वस्वभावत्वं
तथा ब्रह्मणि शाश्वतम् ||१६४||
यथा
निजस्वभावेन कुण्डलकटकादयः |
सुवर्णत्वेन
तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ||१६५||
स्वयं
तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् |
कीटो
भृङ्ग इव ध्यानाद्यथा भवति तादृशः ||१६६||
गुरुध्यानं
तथा कृत्वा स्वयं ब्रह्ममयो भवेत् |
पिण्डे
पदे तथा रूपे मुक्तास्ते नात्र संशयः ||१६७||
श्रीपार्वती
उवाच |
पिण्डं
किं तु महादेव पदं किं समुदाहृतम् |
रूपातीतं
च रूपं किं एतदाख्याहि शंकर ||१६८||
श्रीमहादेव
उवाच |
पिण्डं
कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् |
रूपं
बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ||१६९||
पिण्डे
मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने |
रूपातीते
तु ये मुक्तास्ते मुक्ता नात्र संशयः ||१७०||
गुरुर्ध्यानेनैव
नित्यं देही ब्रह्ममयो भवेत् |
स्थितश्च
यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ||१७१||
ज्ञानं
स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः |
षड्गुणैश्वर्ययुक्तो
हि भगवान् श्रीगुरुः प्रिये ||१७२||
गुरुः
शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् |
गुरुरात्मा
गुरुर्जीवो गुरोरन्यन्न विद्यते ||१७३||
एकाकी
निस्पृहः शान्तश्चिन्तासूयादिवर्जितः |
बाल्यभावेन
यो भाति ब्रह्मज्ञानी स उच्यते ||१७४||
न
सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके |
गुरोः
प्रसादादन्यत्र सुखं नास्ति महीतले ||१७५||
चार्वाकवैष्णवमते
सुखं प्राभाकरे न हि |
गुरोः
पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ||१७६||
न
तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् |
यत्सुखं
वीतरागस्य मुनेरेकान्तवासिनः ||१७७||
नित्यं
ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि |
इन्द्रं
च मन्यते तुच्छं नृपाणां तत्र का कथा ||१७८||
यतः
परमकैवल्यं गुरुमार्गेण वै भवेत् |
गुरुभक्तिरतः
कार्या सर्वदा मोक्षकांक्षिभिः ||१७९||
एक
एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः |
एवमभ्यस्यता
नित्यं न सेव्यं वै वनान्तरम् ||१८०||
अभ्यासान्निमिषेणैवं
समाधिमधिगच्छति |
आजन्मजनितं
पापं तत्क्षणादेव नश्यति ||१८१||
किमावाहनमव्यक्तै
व्यापकं किं विसर्जनम् |
अमूर्तो
च कथं पूजा कथं ध्यानं निरामये ||१८२||
गुरुर्विष्णुः
सत्त्वमयो राजसश्चतुराननः |
तामसो
रुद्ररूपेण सृजत्यवति हन्ति च ||१८३||
स्वयं
ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् |
परात्परतरं
नान्यत् सर्वगं च निरामयम् ||१८४||
तस्यावलोकनं
प्राप्य सर्वसंगविवर्जितः |
एकाकी
निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ||१८५||
लब्धं
वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा |
निष्कामेनैव
भोक्तव्यं सदा संतुष्टमानसः ||१८६||
सर्वज्ञपदमित्याहुर्देही
सर्वमयो भुवि |
सदाऽनन्दः
सदा शान्तो रमते यत्रकुत्रचित् ||१८७||
यत्रैव
तिष्ठते सोऽपि स देशः पुण्यभाजनः |
मुक्तस्य
लक्षणं देवि तवाग्रे कथितं मया ||१८८||
उपदेशस्त्वयं
देवि गुरुमार्गेण मुक्तिदः |
गुरुभक्तिस्तथात्यान्ता
कर्तव्या वै मनीषिभिः ||१८९||
नित्ययुक्ताश्रयः
सर्वो वेदकृत्सर्ववेदकृत् |
स्वपरज्ञानदाता
च तं वन्दे गुरुमीश्वरम् ||१९०||
यद्यप्यधीता
निगमाः षडंगा आगमाः प्रिये |
अध्यात्मादीनि
शास्त्राणि ज्ञानं नास्ति गुरुं विना ||१९१||
शिवपूजारतो
वापि विष्णुपूजारतोऽथवा |
गुरुतत्त्वविहीनश्चेत्तत्सर्वं
व्यर्थमेव हि ||१९२||
शिवस्वरूपमज्ञात्वा
शिवपूजा कृता यदि |
सा
पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ||१९३||
सर्वं
स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः |
गुरुलाभात्सर्वलाभो
गुरुहीनस्तु बालिशः ||१९४||
गुरुहीनः
पशुः कीटः पतंगो वक्तुमर्हति |
शिवरूपं
स्वरूपं च न जानाति यतस्स्वयम् ||१९५||
तस्मात्सर्वप्रयत्नेन
सर्वसंगविवर्जितः |
विहाय
शास्त्रजालानि गुरुमेव समाश्रयेत् ||१९६||
निरस्तसर्वसन्देहो
एकीकृत्य सुदर्शनम् |
रहस्यं
यो दर्शयति भजामि गुरुमीश्वरम् ||१९७||
ज्ञानहीनो
गुरुस्त्याज्यो मिथ्यावादि विडम्बकः |
स्वविश्रान्तिं
न जानाति परशान्तिं करोति किम् ||१९८||
शिलायाः
किं परं ज्ञानं शिलासंघप्रतारणे |
स्वयं
तर्तुं न जानाति परं निस्तारयेत् कथम् ||१९९||
न
वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः |
वर्जयेतान्
गुरुन् दूरे धीरानेव समाश्रयेत् ||२००||
पाषण्डिनः
पापरताः नास्तिका भेदबुद्धयः |
स्त्रीलम्पटा
दुराचाराः कृतघ्ना बकवृत्तयः ||२०१||
कर्मभ्रष्टाः
क्षमानष्टा निन्द्यतर्केश्च वादिनः |
कामिनः
क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ||२०२||
ज्ञानलुप्ता
न कर्तव्या महापापास्तथा प्रिये |
एभ्यो
भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ||२०३||
शिष्यादन्यत्र
देवेशि न वदेद्यस्य कस्यचित् |
नराणां
च फलप्राप्तौ भक्तिरेव हि कारणम् ||२०४||
गूढो
दृढश्च प्रीतश्च मौनेन सुसमाहितः |
सकृत्कामगतौ
वापि पञ्चधा गुरुरीरितः ||२०५||
सर्वं
गुरुमुखाल्लब्धं सफलं पापनाशनम् |
यद्यदात्महितं
वस्तु तत्तद्द्रव्यं न वञ्चयेत् ||२०६||
गुरुदेवार्पणं
वस्तु तेन तुष्टोऽस्मि सुव्रते |
श्रीगुरोः
पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ||२०७||
नतास्मि
ते नाथ पदारविन्दं
बुद्धीन्द्रियाप्राणमनोवचोभिः
|
यच्चिन्त्यते
भावित आत्मयुक्तौ
मुमुक्षिभिः
कर्ममयोपशान्तये ||२०८||
अनेन
यद्भवेत्कार्यं तद्वदामि तव प्रिये |
लोकोपकारकं
देवि लौकिकं तु विवर्जयेत् ||२०९||
लौकिकाद्धर्मतो
याति ज्ञानहीनो भवार्णवे |
ज्ञानभावे
च यत्सर्वं कर्म निष्कर्म शाम्यति ||२१०||
इमां
तु भक्तिभावेन पठेद्वै श्रुणुयादपि |
लिखित्वा
यत्प्रदानेन तत्सर्वं फलमश्नुते ||२११||
गुरुगीतामिमां
देवि हृदि नित्यं विभावय |
महाव्याधिगतैर्दुःखैः
सर्वदा प्रजपेन्मुदा ||२१२||
गुरुगीताक्षरैकैकं
मन्त्रराजमिदं प्रिये |
अन्ये
च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम् ||२१३||
अनन्त
फलमाप्नोति गुरुगीता जपेन तु |
सर्वपापहरा
देवि सर्वदारिद्र्यनाशिनी ||२१४||
अकालमृत्युहर्त्री
च सर्वसंकटनाशिनी |
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी
||२१५||
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी
|
यत्फलं
गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ||२१६||
महाव्याधिहरा
सर्वविभूतेः सिद्धिदा भवेत् |
अथवा
मोहने वश्ये स्वयमेव जपेत्सदा ||२१७||
कुशदूर्वासने
देवि ह्यासने शुभ्रकम्बले |
उपविश्य
ततो देवि जपेदेकाग्रमानसः ||२१८||
शुक्लं
सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये |
पद्मासने
जपेन्नित्यं शान्तिवश्यकरं परम् ||२१९||
वस्त्रासने
च दारिद्र्यं पाषाणे रोगसम्भवः |
मेदिन्यां
दुःखमाप्नोति काष्ठे भवति निष्फलम् ||२२०||
कृष्णाजिने
ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि |
कुशासने
ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ||२२१||
आग्नेय्यां
कर्षणं चैव वायव्यां शत्रुनाशनम् |
नैऋर्त्यां
दर्शनं चैव ईशान्यां ज्ञानमेव च ||२२२||
उदङ्मुखः
शान्तिजप्ये वश्ये पूर्वमुखस्तथा |
याम्ये
तु मारणं प्रोक्तं पश्चिमे च धनागमः ||२२३||
मोहनं
सर्वभूतानां बन्धमोक्षकरं परम् |
देवराज्ञां
प्रियकरं राजानं वशमानयेत् ||२२४||
मुखस्तम्भकरं
चैव गुणानां च विवर्धनम् |
दुष्कर्मनाशनं
चैव तथा सत्कर्मसिद्धिदम् ||२२५||
प्रसिद्धं
साधयेत्कार्यं नवग्रहभयापहम् |
दुःस्वप्ननाशनं
चैव सुस्वप्नफलदायकम् ||२२६||
मोहशान्तिकरं
चैव बन्धमोक्षकरं परम् |
स्वरूपज्ञाननिलयं
गीताशास्त्रमिदं शिवे ||२२७||
यं
यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् |
नित्यं
सौभाग्यदं पुण्यं तापत्रयकुलापहम् ||२२८||
सर्वशान्तिकरं
नित्यं तथा वन्ध्या सुपुत्रदम् |
अवैधव्यकरं
स्त्रीणां सौभाग्यस्य विवर्धनम् ||२२९||
आयुरारोग्यमैश्वर्यं
पुत्रपौत्रप्रवर्धनम् |
निष्कामजापी
विधवा पठेन्मोक्षमवाप्नुयात् ||२३०||
अवैधव्यं
सकामा तु लभते चान्यजन्मनि |
सर्वदुःखमयं
विघ्नं नाशयेत्तापहारकम् ||२३१||
सर्वपापप्रशमनं
धर्मकामार्थमोक्षदम् |
यं
यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ||२३२||
काम्यानां
कामधेनुर्वै कल्पिते कल्पपादपः |
चिन्तामणिश्चिन्तितस्य
सर्वमंगलकारकम् ||२३३||
लिखित्वा
पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् |
गुरूभक्तिर्विशेषेण
जायते हृदि सर्वदा ||२३४||
जपन्ति
शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः |
शैवाः
पाशुपताः सर्वे सत्यं सत्यं न संशयः ||२३५||
||इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर
संवादे
श्री
गुरुगीतायां द्वितीयोऽध्यायः ||
No comments:
Post a Comment